आत्मवत्सर्वभूतेषु यः पश्यति सः पण्डितः
(NCERT शारदा - कक्षा ९ संस्कृत पाठ्यपुस्तक)
पाठ्य-परिचयः (पाठ का परिचय) [पृष्ठ - २३]
भारतदेशः बहूनां ब्रह्मर्षीणां महात्मनां च भूमिः। तेषां चरित्राणि सकलस्य विश्वस्य कृते प्रेरणास्पदम्। तेषां चरित्रेषु प्रतिपदं भूतदया, समता, क्षमा, अहिंसा, करुणा, ऋजुता, बन्धुता चेत्यादीनि जीवनमूल्यानि प्राप्यन्ते। महाराष्ट्रस्य प्रसिद्धः महात्मा नामदेवमहाराजः स्वीयव्यवहारेण करुणायाः महान्तम् आदर्शम् उपस्थापितवान्। सः सर्वात्मकस्य ईश्वरस्य न केवलं सङ्कीर्तनं कृतवान् अपि तु सर्वेषु जीवेषु सः भगवन्तं दृष्टवान्। नामदेवमहाराजस्य जीवनस्य काचित् शिक्षाप्रदा घटना अत्र प्रदर्शिता अस्ति यां पठित्वा अस्माकं जीवनं परिवर्तितं भवेत्।
हिन्दी अनुवाद: भारत देश अनेक ब्रह्मर्षियों और महात्माओं की भूमि है। उनके चरित्र संपूर्ण विश्व के लिए प्रेरणादायक हैं। उनके चरित्रों में हर कदम पर जीव-दया, समता, क्षमा, अहिंसा, करुणा, सरलता और बंधुता जैसे जीवन-मूल्य मिलते हैं। महाराष्ट्र के प्रसिद्ध संत महात्मा नामदेव महाराज ने अपने आचरण से करुणा का महान आदर्श प्रस्तुत किया। उन्होंने न केवल सर्वव्यापी ईश्वर का संकीर्तन किया, बल्कि सभी जीवों में भगवान को देखा। नामदेव महाराज के जीवन की एक शिक्षाप्रद घटना यहाँ प्रस्तुत की गई है, जिसे पढ़कर हमारा जीवन परिवर्तित हो सकता है।
संवाद-व्याख्या एवं कथा-सारः (संवाद एवं कथा विस्तार) [पृष्ठ - २३-२६]
मातामही:
भोः कपिल ! माधवि ! किं कुरुतः ? वत्सौ, अधुना क्रीडया अलम्। कथां श्रोतुम् इच्छतः वा?
हिन्दी: अरे कपिल! माधवी! क्या कर रहे हो? बच्चों, अब खेलना बंद करो। क्या कहानी सुनना चाहते हो?
कपिलः:
मातामहि ! पश्यतु किल। सः शुनकः आवयोः क्रीडायां मध्ये मध्ये प्रविश्य आवां पीडयति स्म। अतः आवां तं सम्यक् दण्डितवन्तौ।
हिन्दी: नानी जी! देखिए न। वह कुत्ता हमारे खेल के बीच-बीच में आकर हमें परेशान कर रहा था। इसलिए हमने उसे अच्छी तरह दंडित किया।
मातामही (नामदेवस्य कथां श्रावयन्ती):
एषा कथा नामदेवमहाराजस्य। नामदेवः प्रतिदिनं पाण्डुरङ्गाय नैवेद्यं समर्प्य, तं भोजयित्वा ततः परमेव अन्नं सेवते स्म। तस्य गुरुः विसोबा तम् अध्यापितवान् यत् 'ईश्वरः न केवलं मन्दिरे भवति, अपि तु सर्वेषु भूतेषु तस्य निवासो भवति। अतः तस्य सर्वात्मकस्य ईश्वरस्य पूजनं कुरु' इति।
हिन्दी: यह कहानी नामदेव महाराज की है। नामदेव प्रतिदिन पांडुरंग (विट्ठल भगवान) को नैवेद्य अर्पित करके और उन्हें खिलाकर ही स्वयं भोजन करते थे। उनके गुरु विसोबा ने उन्हें सिखाया था कि 'ईश्वर केवल मंदिर में ही नहीं, बल्कि सभी प्राणियों में निवास करता है। इसलिए सर्वव्यापी ईश्वर की पूजा करो।'
मातामही (घटना प्रसङ्गम् अनुसरन्ती):
एकदा कश्चन बुभुक्षितः शुनकः आगत्य स्थालिकायाः रोटिकां गृहीत्वा धावितवान्। नामदेवः लगुडं पाषाणखण्डं वा न गृहीतवान्, अपि तु घृतपात्रम् आदाय 'हे देव ! शुष्कां रोटिकां मा खादतु, घृतमपि स्वीकरोतु' इति वदन् शुनकस्य पृष्ठे अनुधावितवान्।
हिन्दी: एक बार एक भूखा कुत्ता आकर थाली से रोटी उठाकर भाग गया। नामदेव ने लाठी या पत्थर का टुकड़ा नहीं उठाया, बल्कि घी का पात्र लेकर 'हे प्रभु! सूखी रोटी मत खाइए, घी भी स्वीकार कीजिए' कहते हुए कुत्ते के पीछे दौड़े।
माधवी कपिलः च:
मातामहि ! अहं प्रमादं कृतवान्/कृतवती। अद्य आवां ज्ञातवन्तौ यत् सर्वेषु जीवेषु ईश्वरः निवसति, अतः कमपि न पीडयिष्यावः।
हिन्दी: नानी जी! हमसे भूल हुई। आज हम दोनों समझ गए कि सभी जीवों में ईश्वर निवास करता है, इसलिए हम किसी को भी दुःख नहीं पहुँचाएँगे।
नैवेद्यं गृह्यतां देव भक्तिं मे ह्यचलां कुरु।
ईप्सितं मे वरं देहि परत्र च परां गतिम् ॥
शर्कराखण्डखाद्यानि दधिक्षीरघृतानि च।
आहारं भक्ष्यभोज्यं च नैवेद्यं प्रतिगृह्यताम् ॥ [पृष्ठ - २४, ३६]
अन्वयः भावार्थः च: हे देव! नैवेद्यं गृह्यताम्। मेरी भक्ति को अचल (दृढ़) कीजिए। मुझे मनोवांछित वर और परलोक में परम गति प्रदान कीजिए। शक्कर के टुकड़े, खांड, दही, दूध, घी तथा सभी प्रकार के भक्ष्य-भोज्य आहार रूपी नैवेद्य को स्वीकार कीजिए।
स्वाध्यायान्मा प्रमदः (पाण्डुरङ्ग-विषयप्रबोधनम् एवं उपपदविभक्तयः) [पृष्ठ - २९, ३०, ३६]
१. श्रीपाण्डुरङ्ग-परिचयः [पृष्ठ - ३६]: पांडुरंग के विट्ठल, विठोबा, पंढरीनाथ और विठुमाऊली आदि नाम हैं। महाराष्ट्र के सोलापुर जिले में पंढरपुर तीर्थक्षेत्र चंद्रभागा नदी के तट पर स्थित है। यह वारकरी संप्रदाय के आराध्य देव हैं, जो ईंट (इष्टिका) पर समचरण खड़े होकर दोनों हाथ कमर पर रखकर भक्तों की रक्षा का संदेश देते हैं।
२. सूक्ति-सदाचारः [पृष्ठ - २६]: "आत्मवत्सर्वभूतेषु यः पश्यति सः पण्डितः।" अर्थात् जो व्यक्ति सभी जीवों को अपने समान देखता है (जैसा व्यवहार स्वयं के लिए चाहता है, वैसा ही दूसरों के साथ करता है), वही वास्तव में विद्वान या पंडित है।
३. मुख्य उपपद-विभक्तयः [पृष्ठ - २९, ३०]:
• द्वितीया विभक्तिः: प्रति (की ओर), धिक् (धिक्कार), निकषा (पास), परितः (चारों ओर)। (उदा. धिक् शुनकम्, पाठशालां निकषा, देवं परितः)
• तृतीया विभक्तिः: सह / साकं / सार्धम् / समम् (के साथ), अलम् (बस / मत करो)। (उदा. मात्रा सह, अलं क्रीडया)
• द्वितीया/तृतीया/पञ्चमी: विना (के बिना)। (उदा. कारणं / कारणेन / कारणात् विना)
अभ्यासाद् जायते सिद्धिः (अभ्यास-कार्यम्) [पृष्ठ - ३०, ३१, ३२, ३३, ३४]
प्रश्ना १. अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत [पृष्ठ - ३०, ३१]:
(क) मातामही कस्य कथां श्रावितवती ?
उत्तरम्: मातामही नामदेवमहाराजस्य कथां श्रावितवती।
(ख) नामदेवस्य गुरुः नामदेवं किम् अध्यापितवान् ?
उत्तरम्: नामदेवस्य गुरुः विसोबा अध्यापितवान् यत् ईश्वरः न केवलं मन्दिरे भवति, अपि तु सर्वेषु भूतेषु तस्य निवासो भवति, अतः तस्य सर्वात्मकस्य ईश्वरस्य पूजनं कुरु इति।
(ग) नामदेवः कया भावनया धावनं कृतवान् ?
उत्तरम्: नामदेवः करुणाभावनया (घृतपात्रं धृत्वा) धावनं कृतवान्।
(घ) बालकयोः मुखे किमर्थं म्लाने संजाते ?
उत्तरम्: अपराधभावनया बालकयोः मुखे म्लाने संजाते।
(ङ) कपिलः माधवी च कं सङ्कल्पं कृतवन्तौ ?
उत्तरम्: कपिलः माधवी च सङ्कल्पं कृतवन्तौ यत् अस्माकं कायेन वाचा मनसा वा कस्यापि पीडा न भवेत्, सर्वेषु जीवेषु ईश्वरः निवसति, अतः कमपि न पीडयिष्यावः इति।
(च) 'तं दृष्ट्वा पाषाणखण्डं स्वीकृत्य मारयितुं धावितवन्तौ' इति वाक्ये 'तम्' इति सर्वनामशब्दः कस्य कृते प्रयुक्तः ?
उत्तरम्: अस्मिन् वाक्ये 'तम्' इति सर्वनामशब्दः शुनकस्य (कुत्ते के) कृते प्रयुक्तः।
(छ) कपिलः माधवी च कुत्र गतवन्तौ ?
उत्तरम्: कपिलः माधवी च अवकाशकाले मातुलगृहं गतवन्तौ।
(ज) 'मातामही तं प्रसङ्गं दृष्टवती, तौ आहूतवती च'। इति वाक्ये 'तौ' इति शब्दः कस्यां विभक्तौ अस्ति ?
उत्तरम्: अस्मिन् वाक्ये 'तौ' इति शब्दः द्वितीयाविभक्तौ (द्विवचने) अस्ति।
प्रश्ना २. अधोलिखितानि वाक्यानि भूतकालेन परिवर्त्य पुनः लिखत [पृष्ठ - ३१]:
यथा (उदाहरण): नामदेवः स्थालिकां स्वीकृत्य मन्दिरं गच्छति। → नामदेवः स्थालिकां स्वीकृत्य मन्दिरं गतवान्।
(क) नैवेद्यं विग्रहस्य पुरतः स्थापयति।
उत्तरम्: नैवेद्यं विग्रहस्य पुरतः स्थापितवान्।
(ख) नेत्रे निमील्य प्रार्थनायाः आरम्भं करोति।
उत्तरम्: नेत्रे निमील्य प्रार्थनायाः आरम्भं कृतवान्।
(ग) गुरुः विसोबा तम् अध्यापयति।
उत्तरम्: गुरुः विसोबा तम् अध्यापितवान्।
(घ) अहं शृणोमि।
उत्तरम्: अहं श्रुतवान् / श्रुतवती।
(ङ) सत्पुरुषाः स्वकर्तृत्वेन जन्म सार्थकं कुर्वन्ति।
उत्तरम्: सत्पुरुषाः स्वकर्तृत्वेन जन्म सार्थकं कृतवन्तः।
(च) नामदेवः शुनकस्य पृष्ठे अनुधावति।
उत्तरम्: नामदेवः शुनकस्य पृष्ठे अनुधावितवान्।
प्रश्ना ३. अधोलिखितानि कथनानि कः/का/कं/कां प्रति कथयति इति लिखत [पृष्ठ - ३१, ३२]:
(क) कथां श्रोतुम् इच्छतः वा ? → मातामही (कपिलं माधवीं च प्रति)
(ख) अहं श्रुतवती यत् तस्य कीर्तने स्वयं देवः पाण्डुरङ्गः नृत्यं कृतवान् इति। → माधवी (मातामहीं प्रति)
(ग) किं देवेन सह अपि मित्रता सम्भवति ? → कपिलः (मातामहीं प्रति)
(घ) अतः तस्य सर्वात्मकस्य ईश्वरस्य पूजनं कुरु। → गुरुः विसोबा (नामदेवं प्रति)
(ङ) नैवेद्यं गृह्यतां देव भक्तिं मे ह्यचलां कुरु। → नामदेवः (देवं प्रति)
(च) धिक् शुनकम्। → कपिलः (मातामहीं प्रति)
(छ) नामदेवस्य कियत् दुःखं जातं स्यात् खलु ? → माधवी (मातामहीं प्रति)
(ज) किं घृतपात्रम् आधृत्य ? → उभौ (मातामहीं प्रति)
(झ) अद्य अहं ज्ञातवान् यत् सर्वेषु जीवेषु ईश्वरः निवसति इति। → कपिलः (मातामहीं प्रति)
(ञ) उत्तीर्णः भवान् परीक्षाम्। → पाण्डुरङ्गः (नामदेवं प्रति)
प्रश्ना ४. रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत [पृष्ठ - ३२]:
(क) देवः नामदेवं परितः भवति स्म। → देवः कं परितः भवति स्म ?
(ख) ईश्वरः सर्वेषु भूतेषु निवसति। → ईश्वरः केषु (कुत्र) निवसति ?
(ग) शुनकः आगत्य मुखे रोटिकां धृत्वा धावितवान्। → कः आगत्य मुखे रोटिकां धृत्वा धावितवान् ?
(घ) शुनकस्य स्थाने पाण्डुरङ्गः आविर्भूतवान्। → शुनकस्य स्थाने कः आविर्भूतवान् ?
(ङ) आत्मवत् सर्वभूतेषु यः पश्यति स पण्डितः। → आत्मवत् सर्वभूतेषु यः पश्यति स कः ?
प्रश्ना ५. घटनाक्रमानुसारं वाक्यसंयोजनम् (सही क्रम में वाक्य) [पृष्ठ - ३२]:
- नामदेवः मन्दिरं गतवान्।
- नामदेवः नैवेद्यस्थालिकां विग्रहस्य पुरतः स्थापितवान्।
- नामदेवः मन्त्रम् उच्चार्य श्रद्धया प्रणम्य नेत्रे उद्घाटितवान्।
- शुनकः शुष्करोटिकाम् अपहृत्य पलायितवान्।
- नामदेवः घृतपात्रम् आधृत्य अनुधावितवान्।
- शुनकस्य स्थाने पाण्डुरङ्गः आविर्भूतवान्।
प्रश्ना ६. कोष्ठकेषु दत्तानां पदानाम् उचितां विभक्तिं योजयित्वा अनुच्छेदं पूरयत [पृष्ठ - ३३]:
आगच्छन्तु, पायसं कुर्मः। क्षीरेण (क्षीर) सह तण्डुलाः पक्वाः। शर्करया / शर्काराम (शर्करा) विना कथं शक्यते। शीघ्रमेव आपणं (आपण) प्रति गत्वा शर्कराम् आनयतु। आपणं (आपण) निकषा वाहनानि तिष्ठन्ति। शर्करा महानसे स्थापिता। शर्करां (शर्करा) परितः पिपीलिकाः आगताः। पिपीलिकाः अपनीय पायसे शर्करा योजिता। मधुरेण / मधुरम् (मधुर) विना पायसं रुचिकरं न भवति। अधुना पायसं (पायस) परितः बालक-बालिकावृन्दं तिष्ठति। धिक् अन्यान् मधुरपदार्थान् (अन्ये मधुरपदार्थाः) इति एकः वदति, तेन / तत् / तस्मात् (तत्) विना जीवनम् अपूर्णम् इति अपरः। पायसेन (पायस) सह एव भोजनं सरसम् इति अन्यः। तेषां वचनानि श्रुत्वा पायसं यच्छन्त्याः अम्बायाः मुखे मन्दहासः विलसति।
प्रश्ना ७. अनुच्छेदे स्थूलाक्षरेण दत्तानां क्रियापदानां स्थाने उचितं क्तवतु-प्रत्ययान्तरूपं योजयित्वा पुनः लिखत [पृष्ठ - ३३, ३४]:
कञ्चित् ग्रामं निकषा एका नदी आसीत्। नदी सर्वदा स्वच्छजलं दत्तवती (अददात्)। जनाः तस्याः जलं पीत्वा सुखेन जीवितवन्तः (अजीवन्)। एकः कृषकः तेन जलेन सर्वदा कृषिम् कृतवान् (अकरोत्)। कालान्तरे अन्ये कृषकाः अपि तेन जलेन क्षेत्रसेचनम् कृतवन्तः (अकुर्वन्)। महिलाः पर्वसमये नदीम् पूजितवत्यः (अपूजयन्)। एकवारं कश्चित् परिवारः नद्यां मालिन्यानि क्षिप्तवान् (अक्षिपत्)। क्रमशः अन्ये अपि क्षिप्तवन्तः (अक्षिपन्)। तेन नदी मलिना जाता (अभवत्), मीनाः मृतवन्तः (अम्रियन्त)। स्त्रियः रोगैः पीडिताः जातवत्यः (अभवन्)। तदा एका शिक्षिता बालिका जलस्य महत्त्वं सर्वान् उक्तवती (अवदत्)। सा नदीतीरम् आगत्य स्वयं वृक्षम् रोपितवती (अरोपयत्)। महिलाः अपि ततः प्रेरणां प्राप्य तस्याः साहाय्यम् कृतवत्यः (अकुर्वन्)। सर्वे ग्रामवासिनः मिलित्वा नदीम् शोधितवन्तः (अशोधयन्)। पुनः नदी स्वच्छा जाता निर्मलं जलं च दत्तवती (अददात्)। ततः आरभ्य वर्षे एकवारं जनाः नदीम् पूजितवन्तः (अपूजयन्) वृक्षरोपणं च कृतवन्तः (अकुर्वन्)।
प्रश्ना ८. समस्तपदानि पाठात् चित्वा लिखत [पृष्ठ - ३४]:
(क) घृतस्य पात्रम्, तत् → घृतपात्रम्
(ख) पाषाणस्य खण्डः, तम् → पाषाणखण्डम्
(ग) प्रियः सुहृद् → प्रियसहृद् / प्रियमित्रम्
(घ) उदरे वेदना → उदरवेदना
(ङ) स्वीयः व्यवहारः → स्वीयव्यवहारः
(च) जीवनस्य मूल्यानि → जीवनमूल्यानि
(छ) मातुलस्य गृहम्, तत् → मातुलगृहम्
(ज) नरेषु रत्नानि इव, तेषाम् → नररत्नानाम्
(झ) स्वीयं कर्तृत्वम्, तेन → स्वकर्तृत्वेन
(ञ) अपराधस्य भावना, तया → अपराधभावनया
(ट) गुरोः उपदेशः, तम् → गुरुपदेशम्
(ठ) दिने दिने → प्रतिदिनम्
(ड) राजा ऋषिः इव, तेषाम् → राजर्षीणाम्
व्याकरणिक घटकाः (व्याकरण सारणियाँ) [पृष्ठ - २७, २८, ३५, ३६]
१. कठिन शब्दार्थ सारणी (Vocabulary Table) [पृष्ठ - २७, २८, २९]
२. क्रियापद सारणी (Verbs Table - निष्ठा क्तवतु रूप सह) [पृष्ठ - ३५, ३६]
३. अव्यय, उपसर्ग एवं प्रत्यय सारणी (Grammar Components Table) [पृष्ठ - २७, २९]
४. पाणिनीय/पाठगत सन्धि सारणी (Sandhi Table)
अग्रिमः पाठः (अगला पाठ)
चतुर्थः पाठः - न खलु वयस्तेजसो हेतुः पढ़ने के लिए यहाँ क्लिक करें →
0 टिप्पणियाँ