एषा सा कृतकबुद्धिः मानवबुद्धेः सहकारी
(NCERT शारदा - कक्षा ९ संस्कृत पाठ्यपुस्तक)
पाठ्य-परिचयः (पाठ का परिचय) [पृष्ठ - ५१]
आधुनिके विज्ञानयुगे यदा मानवजीवनं द्रुतगत्या परिवर्तनशीलम् अस्ति, तदा अत्र कृतकबुद्धिः प्रभावशाली-साधनरूपेण समुपस्थिता वर्तते। अत्र यन्त्राणि मानववत् चिन्तयन्ति, निर्णयं च कुर्वन्ति। अस्मिन् पाठे “कृतकबुद्धिः-मानवबुद्धेः सहकारी” इति कश्चित् वार्तालापः प्रस्तुतः अस्ति। यत्र अध्यापकः छात्राः च मिलित्वा कृतकबुद्धेः स्वरूपम्, उपयोगक्षेत्राणि, लाभान् सीमां च अधिकृत्य चर्चां कुर्वन्ति। एषः पाठः न केवलं कृतकबुद्धेः विषये सूचनां प्रयच्छति अपि तु विद्यार्थिनां चिन्तन-शक्तिं विवेकं च जागरयति।
हिन्दी अनुवाद: आधुनिक विज्ञान के युग में जब मानव जीवन तीव्र गति से परिवर्तनशील है, तब यहाँ 'कृतकबुद्धि' (कृत्रिम बुद्धिमत्ता / AI) एक प्रभावशाली साधन के रूप में उपस्थित हुई है। यहाँ मशीनें मनुष्य की भांति सोचती हैं और निर्णय लेती हैं। इस पाठ में "कृतकबुद्धिः-मानवबुद्धेः सहकारी" (AI मानव बुद्धि की सहयोगी है) शीर्षक से एक वार्तालाप प्रस्तुत है, जहाँ शिक्षक और विद्यार्थी मिलकर AI के स्वरूप, उपयोग के क्षेत्रों, लाभों तथा सीमाओं पर चर्चा करते हैं।
संवाद-व्याख्या (कक्षा-वार्तालापः) [पृष्ठ - ५२, ५३, ५४, ५५, ५६, ५७]
यशिका:
महोदय ! अद्य अहम् काञ्चन चालकरहितं पटु-कारयानं दृष्टवती। अहम् आश्चर्यचकिता। किम् एतत् सम्भवम्?
हिन्दी: महोदय! आज मैंने एक बिना ड्राइवर वाली स्मार्ट कार देखी। मैं आश्चर्यचकित थी। क्या यह सम्भव है?
अध्यापकः:
अवश्यं यशिके ! एतत् कृतकबुद्ध्या सम्भवति। यया अचेतनयन्त्राणि मानवबुद्धिवत् कार्यं कुर्वन्ति, सा कृतकबुद्धिः इति वैज्ञानिकाः मन्यन्ते।
हिन्दी: अवश्य यशिका! यह कृत्रिम बुद्धिमत्ता (AI) से सम्भव है। जिसके द्वारा निर्जीव मशीनें मानव बुद्धि की भांति कार्य करती हैं, वैज्ञानिक उसे कृतकबुद्धि (AI) मानते हैं।
अथर्वः श्रेय च:
आम्, चैट-जीपीटी, सिरि, एलेक्सा, गूगल-मानचित्रम्, जेमिनि, मेटा-कृतकबुद्धिः इत्यादयः अनुप्रयुक्ततन्त्रविशेषाः कृतकबुद्धियुक्ताः सन्ति।
हिन्दी: हाँ, चैट-जीपीटी, सिरी, अलेक्सा, गूगल-मैप्स, जेमिनी, मेटा-एआई आदि सॉफ्टवेयर उपकरण कृत्रिम बुद्धिमत्ता से युक्त हैं।
अध्यापकः (कृतकबुद्धेः प्रकारान् शिक्षयन्):
कृतकबुद्धेः त्रयः प्रकाराः सन्ति— (१) सङ्कुचितकृतकबुद्धिः (Narrow AI) (२) सामान्यकृतकबुद्धिः (General AI) (३) अत्युत्कृष्टकृतकबुद्धिः (Super AI)। डेटासेट् (Dataset) इति यन्त्रपाठशालायाः माध्यमने एतानि यन्त्राणि शिक्षन्ते।
हिन्दी: कृत्रिम बुद्धिमत्ता के तीन प्रकार हैं— (1) संकुचित AI (2) सामान्य AI तथा (3) अत्युत्कृष्ट AI। 'डेटासेट' नामक मशीन की पाठशाला/डेटा के माध्यम से ये मशीनें सीखती हैं।
अध्यापकः (नैतिकता विषयम् अधिकृत्य):
कृतकबुद्धिः गुरुमित्रम् अस्ति, गुरुविकल्पः नास्ति। शिक्षकाः मानवीयमूल्यबोधम् अपि जनयन्ति। डीप-फेक् (Deepfake) इत्यादीनां साइबर-अपराधानां निवारणाय कृतकबुद्धि-साक्षरता आत्मनियन्त्रणं च आवश्यकम्।
हिन्दी: एआई शिक्षक की मित्र व सहयोगी है, शिक्षक का विकल्प नहीं। शिक्षक मानवीय मूल्यों की शिक्षा देते हैं। डीपफेक जैसे साइबर अपराधों से बचाव हेतु वित्तीय/एआई साक्षरता एवं आत्म-नियंत्रण आवश्यक है।
विद्युत्प्रज्ञया यन्त्राणि नित्यं वदन्ति चेतनाः ।
अहोरात्रं न विश्रान्ताः मानवान् धारयन्ति ते ॥ [पृष्ठ - ५६]
सरलार्थ (हिन्दी): विद्युत्-बुद्धि (इलेक्ट्रॉनिक/कृत्रिम बुद्धि) के द्वारा मशीनें चेतन (सजीव) प्राणियों की भांति निरंतर बोलती हैं और बिना दिन-रात विश्राम किए मनुष्यों के कार्यों को सम्भालती व संचालित करती हैं।
स्वाध्यायान्मा प्रमदः (अमरकोशात् बुद्धिपर्यायाः कारकनियमाश्च) [पृष्ठ - ६०, ६६]
१. अमरकोशानुसारं बुद्धेः पर्यायाः [पृष्ठ - ६६]:
"बुद्धिर्मनीषा धिषणा धीः प्रज्ञा शेमुषी मतिः । प्रेक्षोपलब्धिश्चित् संवित् प्रतिपत् ज्ञप्तिचेतना ॥"
अर्थात् बुद्धि, मनीषा, धिषणा, धी, प्रज्ञा, शेमुषी, मति, प्रेक्षा, उपलब्धि, चित्, संविद्, प्रतिपत्, ज्ञप्ति तथा चेतना—ये सभी शब्द स्त्रीलिंग में बुद्धि के पर्यायवाची हैं।
२. कारक-विभक्ति-प्रयोगाः [पृष्ठ - ६०]:
• पञ्चमी (अपादानम्): वियोग, भय अथवा कारण अर्थ में (उदा. बिडालात् बिभेति, विद्यालयात् आगतः)।
• षष्ठी (सम्बन्धः): स्वामी, भाग या विषय के सम्बन्ध में (उदा. बालकस्य पुस्तकम, मम मित्रम्)।
• सप्तमी (अधिकरणम्): स्थान, समय व आधार बोध हेतु (उदा. विद्यालये पठति, प्रभाते सूर्यः उदेति)।
३. भारतसर्वकारस्य डिजिटल-पहलः [पृष्ठ - ५४, ५६, ५७]:
शिक्षा एवं कौशल विकास के लिए भारत सरकार द्वारा दीक्षा (DIKSHA), स्वयं (SWAYAM), पीएम ई-विद्या, स्किल इण्डिया, डिजिटल इण्डिया तथा India AI Impact Summit 2026 जैसे राष्ट्रीय कार्यक्रमों का संचालन किया जा रहा है।
अभ्यासाद् जायते सिद्धिः (अभ्यास-कार्यम्) [पृष्ठ - ६१, ६२, ६३, ६४, ६५]
प्रश्ना १. पूर्णवाक्येन उत्तराणि लिखत (पूर्ण वाक्य में उत्तर दीजिए) [पृष्ठ - ६१]:
(क) कृतकबुद्धिः का अस्ति ?
उत्तरम्: यया अचेतनयन्त्राणि मानवबुद्धिवत् चिन्तयन्ति निर्णयं च कुर्वन्ति, सा कृतकबुद्धिः (Artificial Intelligence) अस्ति।
(ख) 'डेटासेट्' केषां पाठशाला अस्ति ?
उत्तरम्: 'डेटासेट्' यन्त्राणां (कृतकबुद्धियुक्तानां यन्त्राणाम्) पाठशाला अस्ति।
(ग) यदि अशुद्धदत्तांशः दीयते तर्हि का समस्या भवति ?
उत्तरम्: यदि अशुद्धदत्तांशः दीयते तर्हि कृतकबुद्धिः अपि त्रुटिं (पूर्वाग्रहदोषम्) करोति।
(घ) 'कृतकबुद्धिः मित्रं भवेत्, न भवेत् स्वामी' इति वाक्यस्य कः अर्थः ?
उत्तरम्: अस्य अर्थः अस्ति यत् कृतकबुद्धिः मानवस्य सहयोगिनी अस्ति, न तु मानवस्य उपरि नियन्त्रणं कर्तुं स्वामिनी।
प्रश्ना २. यथोचितं मेलनं कुरुत (सही मिलान कीजिए) [पृष्ठ - ६१, ६२]:
- (क) चैट-जीपीटी (ChatGPT) → ४. संवाद्यन्त्रम्
- (ख) डीप-फेक् (Deepfake) → ७. मिथ्याचित्रस्य निर्माणम्
- (ग) डेटासेट् (Dataset) → ९. यन्त्रपाठशालायाः नाम
- (घ) दीक्षा (DIKSHA) → २. ए.आई. आधारित-शिक्षाप्रणाली
- (ङ) पूर्वाग्रहः → ५. पक्षपातयुक्तं प्रशिक्षणफलम्
प्रश्ना ३. मञ्जूषातः शब्दान् चित्वा रिक्तस्थानानि पूरयत (रिक्त स्थान भरिए) [पृष्ठ - ६२, ६३]:
(क) यन्त्राणां शिक्षणाय डेटासेट् नामकः दत्तांशसमूहः उपयुज्यते।
(ख) यः मनुष्यवत् प्रश्नोत्तरं करोति, सः सम्वादयन्त्रम् इति उच्यते।
(ग) शिक्षकः सदैव करुणां विवेकं च शिक्षयति।
(घ) मिथ्याचित्रं मिथ्यावाणी च यदि क्रियते तर्हि सः दोषः डीप-फेक् इति कथ्यते।
(ङ) ड्रोनस्य माध्यमने बीज-वपनम् कृषिक्षेत्रे भवति।
प्रश्ना ५. शुद्धम् (✓) अशुद्धम् (✗) वा चिनुत (सही या गलत) [पृष्ठ - ६४]:
(क) कृतकबुद्धिः केवलं विनोदानुकूलम् उपकरणम् अस्ति। → ( ✗ )
(ख) अथर्वः अपि शिक्षायां कृतकबुद्धेः प्रयोगं करोति। → ( ✓ )
(ग) ए.आई. डीप-फेक् इत्यपि कश्चन दुरुपयोगः अस्ति। → ( ✓ )
(घ) शिक्षकः गम्भीरतया चैट्-बोट्-वाक्यानां मूल्याङ्कनं करोति। → ( ✓ )
व्याकरणिक घटकाः (व्याकरण सारणियाँ) [पृष्ठ - ५७, ५८, ५९, ६५]
१. कठिन शब्दार्थ सारणी (Vocabulary Table) [पृष्ठ - ५७, ५८, ५९]
२. क्रियापद सारणी (Verbs Table) [पृष्ठ - ५७, ५८, ६५]
३. अव्यय, उपसर्ग एवं प्रत्यय सारणी (Grammar Components Table) [पृष्ठ - ५७, ५८]
४. पाणिनीय/पाठगत सन्धि सारणी (Sandhi Table)
अग्रिमः पाठः (अगला पाठ)
षष्ठः पाठः - मनःपूतं समाचरेत् पढ़ने के लिए यहाँ क्लिक करें →
0 टिप्पणियाँ